श्री राघवेन्द्र स्तोत्रम्

श्री राघवेन्द्र स्तोत्रम्

श्रीपूर्णबोध-गुरु-तीर्थ-पयोऽब्धि-पारा
कामारि-माऽक्ष-विषमाक्ष-शिरः स्पृशन्ती ।
पूर्वोत्तरामित-तरङ्ग-चरत्-सु-हंसा
देवालि-सेवित-पराङ्घ्रि-पयोज-लग्ना ॥ १ ॥

जीवेश-भेद-गुण-पूर्ति-जगत्-सु-सत्त्व-
नीचोच्च-भाव-मुख-नक्र-गणैः समेता ।
दुर्वाद्यजा-पति-गिलैर्गुरु-राघवेन्द्र-
वाग्-देवता-सरिदमुं विमलीकरोतु ॥ २ ॥

श्री-राघवेन्द्रः सकल-प्रदाता
स्व-पाद-कञ्ज-द्वय-भक्तिमद्‍भ्यः ।
अघाद्रि-सम्भेदन-दृष्टि-वज्रः
क्षमा-सुरेन्द्रोऽवतु मां सदाऽयम् ॥ ३ ॥

श्री-राघवेन्द्रो हरि-पाद-कञ्ज-
निषेवणाल्लब्ध-समस्त-सम्पत् ।
देव-स्वभावो दिविज-द्रुमोऽय-
मिष्टप्रदो मे सततं स भूयात् ॥ ४ ॥

भव्य-स्वरूपो भव-दुःख-तूल-
सङ्गाग्नि-चर्यः सुख-धैर्य-शाली ।
समस्त-दुष्ट-ग्रह-निग्रहेशो
दुरत्ययोपप्लव-सिन्धु-सेतुः ॥ ५ ॥

Continue reading

भगवद्-ध्यानम्

परमपुरुष परमात्म श्रीमन्नारायण

सञ्चिन्तयेद्भगवतश्चरणारविन्दं
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।
उत्तुङ्गरक्तविलसन्नखचक्रवाल-
ज्योत्स्नाभिराहतमहत् हृदयान्धकारम् ॥ १ ॥

यच्छौचनिःसृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्न्यधिधुतेन शिवः शिवोऽभूत् ।
ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २ ॥

ऊरू सुपर्णभुजयोरधिशोभमाना-
वोजोनिधिस्वतसिकाकुसुमावभासौ ।
व्यालम्बिपीतवरवाससिवर्तमान-
काञ्चीकलापपरिरम्भि नितम्बमम्ब ॥ ३ ॥

नाभिर्ह्रदं भुवनकोशगुहोदरस्थं
यत्रात्मयोनिधिषणाखिललोकपद्मम् ।
व्यूढं हरिन्मणिमुषस्तनयोरमुष्य
ध्यायेद्द्वयं विततहारमयूखगौरम् ॥ ४ ॥

वक्षोऽधिवासमृषभस्य महाविभूतेः
पुंसां मनोनयननिर्वृतिमादधानम् ।
कण्ठं च कौस्तुभमणेरधिभूषणार्थं
कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ ५ ॥

Continue reading

श्रीभद्रलक्ष्मी स्तोत्रं

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥

पंचमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥

नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महालक्ष्मीर्द्वादशं लोकसुन्दरी ॥ ३ ॥

श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रीलोकेश्वरी ।
मा क्षीराब्धिसुताऽरविन्दजननी विद्या सरोजात्मिका ॥ ४ ॥

सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश ।
प्रातः शुद्धतराः पठन्ति सततं सर्वांल्लभन्ते शुभान् ॥ ५ ॥

भद्रलक्ष्मीस्तवं नित्यं पुण्यमेतच्छुभावहम् ।
काले स्नात्वाऽपि कावेर्यां जप श्रीवृक्षसन्निदौ ॥ ६ ॥

॥ इति श्री भद्रलक्ष्मीस्तोत्रं संपूर्णं ॥

श्रीवेदव्यास सुळादि (विजयदासरु)

श्री वॆदव्यास दॆवरु

ध्रुवताळ -

यतिगळ शिरोरतुना सतिय अवियोगि
रतिपति जनका स्वरत स्वप्रकाशित
अतिताद्भुत महिम पतित पावननामा
नतजन सुरधेनु दितिजतिमिरभानु
अति दूर दूरसंतत दयापर
चतुर नाना सुरतति करकमला-
र्चितपाद सुंदर दीन मंदार
प्रतर्दननाम नम्म विजयविठ्ठल सत्य-
वतिसूनु जगदॊळु प्रतियिल्लद दाता ॥ १ ॥

मट्टताळ -

ज्ञानमयाकार ज्ञानमयानंदा
ज्ञानमयैश्वर्य ज्ञानमयवर्न
ज्ञानमय तेजा ज्ञानमय शक्ति
ज्ञान मयांबुधि ज्ञानविलोल ना-
मानि विजय विठ्ठलनॆ निनगॆ समा
मौनि व्रत धृतनॆ ज्ञान सुख सांद्रा ॥ २ ॥

Continue reading

श्रीनरसिंहस्तुतिः

श्रीनरसिंहस्तुतिः

श्रीनरसिंहस्तुतिः

उदय-रवि-सहस्र-द्योतितं रूक्ष-वीक्षं
प्रळय-जलधि-नादं कल्प-कृद्-वह्नि-वक्त्रम् ।
सुर-पति-रिपु-वक्षश्चेद-रक्तोक्षिताङ्गं
प्रणत-भय-हरं तं नारसिंहं नतोऽस्मि ॥

प्रळय-रवि-कराळाकार-रुक्-चक्रवाळं
विरळयदुरु-रोची-रोचिताशान्तराळ ।
प्रति-भय-तम-कोपात्युत्‍कटोच्चाट्ट-हासिन्
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ १ ॥

सरस-रभस-पादापात-भाराभि-राव-
प्रचकित-चल-सप्त-द्वन्द्व-लोक-स्तुतस्त्वम् ।
रिपु-रुधिर-निषेकेणेव शोणांङ्घ्रि-शालिन्
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ २ ॥

तव घन-घन-घोषो घोरमाघ्राय जङ्घा-
परिघमलघुमूरु-व्याज-तेजो-गिरिं च ।
घन-विघटितमागाद् दैत्य-जङ्घाल-सङ्घो
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ ३ ॥

कटकि-कटक-राजाद्धाटकाग्र्य-स्थलाभा
प्रकट-पट-तटित् ते सत्-कटि-स्थाऽतिपट्वी ।
कटुक-कटुक-दुष्टाटोप-दृष्टि-प्रमुष्टौ
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ ४ ॥

Continue reading

श्रीवेङ्कटेश स्तोत्रम्

श्रीवेङ्कटेश स्तोत्रम्

वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥

जनार्दनः पद्मनाभो वेङ्कटाचलवासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोलपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥

Continue reading