श्रीनरसिंहस्तुतिः

श्रीनरसिंहस्तुतिः

श्रीनरसिंहस्तुतिः

उदय-रवि-सहस्र-द्योतितं रूक्ष-वीक्षं
प्रळय-जलधि-नादं कल्प-कृद्-वह्नि-वक्त्रम् ।
सुर-पति-रिपु-वक्षश्चेद-रक्तोक्षिताङ्गं
प्रणत-भय-हरं तं नारसिंहं नतोऽस्मि ॥

प्रळय-रवि-कराळाकार-रुक्-चक्रवाळं
विरळयदुरु-रोची-रोचिताशान्तराळ ।
प्रति-भय-तम-कोपात्युत्‍कटोच्चाट्ट-हासिन्
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ १ ॥

सरस-रभस-पादापात-भाराभि-राव-
प्रचकित-चल-सप्त-द्वन्द्व-लोक-स्तुतस्त्वम् ।
रिपु-रुधिर-निषेकेणेव शोणांङ्घ्रि-शालिन्
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ २ ॥

तव घन-घन-घोषो घोरमाघ्राय जङ्घा-
परिघमलघुमूरु-व्याज-तेजो-गिरिं च ।
घन-विघटितमागाद् दैत्य-जङ्घाल-सङ्घो
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ ३ ॥

कटकि-कटक-राजाद्धाटकाग्र्य-स्थलाभा
प्रकट-पट-तटित् ते सत्-कटि-स्थाऽतिपट्वी ।
कटुक-कटुक-दुष्टाटोप-दृष्टि-प्रमुष्टौ
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ ४ ॥

प्रखर-नखर-वज्रोत्‍खात-रूक्षारि-वक्षः-
शिखरि-शिखर-रक्तैराक्त-सन्देह-देह ।
सु-वलिभ शुभ-कुक्षे भद्र-गम्भीर-नाभे
दह-दह नर-सिंहासह्य-वीर्याहितं मे ॥ ५ ॥

स्फुरयति तव साक्षात् सैव नक्षत्र-माला
क्षपित-दितिज-वक्षो-व्याप्त-नक्षत्र-मार्गम् ।
अरि-दर-धर जान्वासक्त-हस्त-द्वयाहो
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ ६ ॥

कटु-विकट-सटौघोद्-घट्टनाद् भ्रष्ट-भूयो-
घन-पटल-विशालाकाश-लब्दावकाशम् ।
कर-परिघ-विमर्द-प्रोद्यमं ध्यायतस्ते
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ ७ ॥

हठ-लठदलघिष्ठोत्-कण्ठ दष्टोष्ठ विद्युत्-
सट शठ-शठिनोरः-पीठ-भित् सुष्टु निष्ठाम् ।
पठति नु तव कण्ठाधिष्ट-घोरान्त्र-माला
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ ८ ॥

हृत-बहु-मिहिराभासह्य-संहार-रंहो-
हुतवह-बहु-हेति-ह्रेपिकानन्त-हेति ।
अहित-विहित-मोहं संवहन् सैंहमास्यं
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ ९ ॥

गुरु-गुरु-गिरि-राजत्-कन्दरान्तर्गते वा
दिनमणि-मणि-शृङ्गे वान्त-वह्नि-प्र-दीप्ते ।
दधदति-कटु-दंष्ट्रे भीषणोज्जिह्व-वक्त्रे
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १० ॥

अधरित-विबुधाब्धि-द्यान-धैर्यं विदीध्यद्-
विविध-विबुध-धी-श्रद्धापितेन्द्रारि-नाशम् ।
विदधदति-कटाहोद्-घट्टनेद्धाट्ट-हासं
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ ११ ॥

त्रि-भुवन-तृण-मात्रा-त्राण-तृष्णं तु नेत्र-
त्रयमति-लघितार्चिर्विष्टपाविष्ट-पादम् ।
नव-तर-रवि-ताम्रं धारयन् रूक्ष-वीक्षं
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १२ ॥

भ्रमदभिभव-भूभृद्-भूरि-भूभार-सद्-भिद्-
भिदनव-विभव-भ्रू-विभ्रमादभ्र-शुभ्र ।
ऋभु-भव-भय-भेत्तर्भासि भो-भो विभोऽभीः
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १३ ॥

श्रवण-खचित-चञ्चत्-कुण्डलोच्चण्ड-गण्ड
भ्रुकुटि-कटु-ललाट श्रेष्ठ-नासारुणोष्ठ ।
वर-द सु-रद राजत्-केसरोत्-सारितारे
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १४ ॥

प्रविकच-कच-राजद्-रत्न-कोटीर-शालिन्
गल-गत-गलदुस्रोदार-रत्नाङ्गदाढ्य ।
कनक-कटक-काञ्ची-सिञ्जिनी-मुद्रिकावन्
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १५ ॥

अरि-दरमसि-खेटौ बाण-चापे गदां सन्-
मुसलमपि दधानः पाश-वर्याङ्कुशौ च ।
कर-युगळ-धृतान्त्र-स्रग् विभिन्नारि-वक्षो
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १६ ॥

चट-चट-चट दूरं मोहय भ्रामयारीन्
कडि-कडि-कडि कायं ज्वारय स्फोटयस्व ।
जहि-जहि-जहि वेगं शात्रवं सानुबन्धं
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १७ ॥

विधि-भव-विबुधेश-भ्रामकाग्नि-स्फुलिङ्ग-
प्रसवि-विकट-दंष्ट्रोज्जिह्व-वक्त्र-त्रिनेत्र ।
कल-कल-कल कामं पाहि मां ते सु-भक्तं
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १८ ॥

कुरु-कुरु करुणां तां साङ्कुरां दैत्य-पूते
दिश-दिश विशदां मे शाश्वतीं देव दृष्टिम् ।
जय-जय जय-मूर्तेऽनार्त जेतव्य-पक्षं
दह-दह नरसिंहासह्य-वीर्याहितं मे ॥ १९ ॥

स्तुतिरियमहित-घ्नी सेविता नारसिंही
तनुरिव परि-शान्ता मालिनी साऽभितोऽलम् ।
तदखिल-गुरु-माग्र्य-श्री-द-रूपा लसद्भिः
सुनियम-नय-कृत्यैः सद्-गणैर्नित्य-युक्ता ॥ २० ॥

लिकुच-तिलक-सूनुः सद्धितार्थानु-सारी
नरहरि-नुतिमेतां शत्रु-संहार-हेतुम् ।
अकृत सकल-पाप-ध्वंसिनीं यः पठेत् तां
व्रजति नृहरि-लोकं काम-लोभाद्यसक्तः ॥ २१ ॥

उदय-रवि-सहस्र-द्योतितं रूक्ष-वीक्षं
प्रळय-जलधि-नादं कल्प-कृद्-वह्नि-वक्त्रम् ।
सुर-पति-रिपु-वक्षश्चेद-रक्तोक्षिताङ्गं
प्रणत-भय-हरं तं नारसिंहं नतोऽस्मि ॥

॥ इति श्रीनारायणपंडिताचार्य विरचिता नरसिंहस्तुतिः समाप्ता ॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Connecting to %s