श्रीभद्रलक्ष्मी स्तोत्रं

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥

पंचमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥

नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महालक्ष्मीर्द्वादशं लोकसुन्दरी ॥ ३ ॥

श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रीलोकेश्वरी ।
मा क्षीराब्धिसुताऽरविन्दजननी विद्या सरोजात्मिका ॥ ४ ॥

सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश ।
प्रातः शुद्धतराः पठन्ति सततं सर्वांल्लभन्ते शुभान् ॥ ५ ॥

भद्रलक्ष्मीस्तवं नित्यं पुण्यमेतच्छुभावहम् ।
काले स्नात्वाऽपि कावेर्यां जप श्रीवृक्षसन्निदौ ॥ ६ ॥

॥ इति श्री भद्रलक्ष्मीस्तोत्रं संपूर्णं ॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Connecting to %s